|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.69. अध्यायः 069
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन धृतराष्ट्रंप्रति वासुदेवादिभगवन्नामनिर्वचनम् ॥ 1 ॥ तथा सन्ध्यर्थं श्रीकृष्णागमनकथनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
धृतराष्ट्र उवाच। 5-69-0x(3610)(34299)
भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छतः।
नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ॥ 5-69-1(34300)
सञ्जय उवाच। 5-69-2x(3611)
श्रुतं मे वासुदेवस्य नामनिर्वचनं शुभम्।
यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ॥ 5-69-2(34301)
वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः।
वासुदेवस्ततो वेद्यो बृहत्त्वाद्विष्णुरुच्यते ॥ 5-69-3(34302)
मौनाद्ध्यानाच्च योगाच्च विद्दि भारत माधवम्।
सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ॥ 5-69-4(34303)
कृषिर्भूवाचकः शब्दो गश्च निर्वृतिवाचकः।
विष्णुस्तद्भावयोगाच्च कृष्णो भवति सात्वतः ॥ 5-69-5(34304)
पुण्डरीकं परं धाम नित्यमक्षयमव्ययम् ।
तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जानार्दनः ॥ 5-69-6(34305)
यतः सत्वं न च्यवते यच्च यत्वान्न हीयते।
सात्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ॥ 5-69-7(34306)
न जायते जनित्राऽयमजस्तस्मादनीकजित् ।
देवानां स्वप्रकाशत्वाद्दमाद्दामोदरो विभुः ॥ 5-69-8(34307)
हर्षात्सुखात्सुखैश्वर्याद्धृषीकेशत्वमश्रुते ।
बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ॥ 5-69-9(34308)
अघो न क्षीयते जातु यस्मात्तस्मादधोक्षजः।
नराणामयनाच्चापि ततो नारायणः स्मृतः ॥ 5-69-10(34309)
पूरणात्सदनाच्चापि ततोऽसौपुरुषोत्तमः।
असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात्।
सर्वस्य च सदा ज्ञानात्सर्वमेतं प्रचक्षते ॥ 5-69-11(34310)
सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम्।
सत्यात्सत्यं तु गोविन्दस्तस्मात्सत्योपि नामतः ॥ 5-69-12(34311)
विष्णुर्विक्रमणाद्देवो जयनाञ्जिष्णुरुच्यते।
शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्भवाम् ॥ 5-69-13(34312)
अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः ॥ 5-69-14(34313)
एवंविधो धर्मनित्यो भगवान्मधुसूदनः ।
आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ॥ ॥ 5-69-15(34314)
इति श्रीमन्महाभारते उद्योगपर्वणि तयानसन्धिपर्वणि ऊनसस्ततितमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-69-2 यावदभिजाने तावत्। वदामीति शेषः। वस्तुतस्तु सः अप्रमेयः ॥ 5-69-3 वसत्यस्मिन् भुवनमिति वासुः दीर्घश्छान्दसः । स चासौ देवश्च वासुदेवः । बृहत्त्वाद्व्यापकत्वात् वेवेष्टि व्याप्नोति सर्वमिति विष्णुः। वृषत्वादिष्णुरपच्यते इति खo पाठः। वृषत्वात् अभीष्टसेन्नकत्वात् इति रत्नगर्भः ॥ 5-69-4 मौनं मुनेः कर्म मननं। मौनं च ध्यानं च ताभ्यां विषयतया युक्तो माधवः। सर्वतत्तवानि पृथिव्यादयो विषयाः। तेच सुखसाधनतया मधुशब्देनोक्ताः। तेषां लयात् संहर्तृत्वात् मधुहा मधुसूदनश्चेति नामद्वयम् ॥ 5-69-5 कृषिरितिशब्दो भूवाचकः कृष्यते सस्यार्थमिति व्युत्पत्त्या। भूमिलोकस्थाप्राणिसुखस्य यो भाव उत्पादनं तत्कर्तृत्वात्कृष्णो भवति ॥ 5-69-6 पुण्डरीकं हृदयकमलं धाम वासस्थानं तत्र सन्नपि अक्षो न क्षीयते हन्यते वेति पुण्डरीकाक्षः। तथाच श्रुतिर्नाच जरयैतज्जीर्यंति न वधेनास्य हन्यत इति हृत्पद्म। दोषैर्जरानाशादिभिः परमात्मनोऽस्पृष्टत्वमाह। दस्युत्रासात् जनं दस्युजनं अर्दयति पीडयतीति जनार्दन इत्यर्थः ॥ 5-69-7 सत्त्वं बलं। आर्षं वेदस्तेन भातीत्यार्षभ औपनिषदः पुरुषः। उपनिषद्वेद्यत्वाद्योगात् वृषभेक्षणः। तथाचायं योगः वृषं धर्मं भासयतीति वृषभो वेदस्तदेव ईक्षणं चक्षुरिव ज्ञापकं यस्य सः वृषभेक्षण इति ॥ 5-69-8 जनित्रा पित्रा न जायत इत्यजः। अनीकजित्सेनाजित् कृष्णः। देवानां स्वप्रकाशत्वात्। ऋगतावित्यस्मादुत्पूर्वात् अप्। उत् उत्कर्षेण ऋच्छति प्रकाशत इति उदरः। दमोस्यास्तीति दामः दामश्चासावुदरश्चेति दामोदरः ॥ 5-69-9 हर्षात् हृषिः सुखात्कं सुखैर्श्वर्यादीशः। महीति च्छान्दसं रोदस्योर्नाम। मह्यौ बाह्योर्यस्य स तथा। ईकाराकारश्छान्दसः ॥ 5-69-10 जातुशब्दार्थे जकारः ॥ 5-69-11 पुरयतीति पुरुः । सीदन्त्यस्मिन्निति सः तस्मात्पुरुषः स चासावुत्तमश्च पुरुषोत्तमः । असतःक कारणस्म सतः कार्यस्य प्रभवाप्ययात् उत्पत्तिप्रलयस्थानचात् सर्वशब्दस्तत्प्रभवाप्ययहेतावुपचारात्प्रवर्तते ॥ 5-69-12 सत्ये धर्मे ॥ 5-69-13 विशेषेण क्रमणात् व्यापनान्। एवं जयतीति जिष्णुः शाश्वतत्वात् शश्वद्भवत्वात्। गवामिन्द्रियाणां वेदनात् प्रकाशात् गोविन्दः ॥ 5-69-15 धर्मे नित्यं सन्निधानात् धर्मनित्यः आगन्ता आगमिष्यति। आनृशंस्यमहिंसा कुरुपाण्डवयोः तदर्थम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|